NCERT Secondary (10th) Private Session 2025-26 Free Open Access

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः

Class 10: Sanskrit (Shemushi) Chapter 9 solutions. Complete Class 10 Sanskrit (Shemushi) Chapter 9 Notes. NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः NCERT 10th Sanskrit...

Curriculum NCERT
Applicable Grade Class 10
Medium English & Hindi
Resource Format Chapter Q&A / PDF

Textbook Solutions & Academic Guide

Verified chapter-wise solutions, answers, and study notes

Curriculum & Exam Preparation Note: Regular practice of NCERT textbook exercises and chapter-end questions establishes strong conceptual clarity for primary and secondary examinations.

Class 10: Sanskrit (Shemushi) Chapter 9 solutions. Complete Class 10 Sanskrit (Shemushi) Chapter 9 Notes.

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः

NCERT 10th Sanskrit (Shemushi) Chapter 9, class 10 Sanskrit (Shemushi) Chapter 9 solutions

प्रश्न-अभ्यासः (पृष्ठ 77-80)

प्रश्न 1.
एकपदेन उत्तरं लिखत

(क) पिता पुत्राय बाल्ये किं यच्छति?
(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
(घ) प्राणेभ्योऽपि कः रक्षणीयः?
(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
(च) वाचि किं भवेत्?
उत्तर:
(क) विद्याधनम्
(ख) धर्मप्रदाम्
(ग) विद्वांसः
(घ) सदाचारः
(ङ) अहितम्
(च) अवक्रता

प्रश्न 2.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
यथा- विमूढधी: पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
कः पक्वं फलं परित्यज्य अपक्वं फलं भुक्ते।

(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
(घ) धैर्यवान् लोके परिभवं न प्राप्नोति ।
(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात् ।
उत्तर:
(क) संसारे के ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?
(ख) जनकेन कस्मै शैशवे विद्याधनं दीयते?
(ग) कस्य निर्णयः विवेकेन कर्तुं शक्यः?
(घ) धैर्यवान् कुत्र परिभवं न प्राप्नोति?
(ङ) आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात्?

प्रश्न 3.
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत
(क) पिता ……. बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः …….. ।
(ख) येन ………. यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ……….., भवेत्, सः ……… इति …….
(ग) य आत्मनः श्रेयः …………… सुखानि च इच्छति, परेभ्यः अहितं …………… कदापि च न …………
उत्तर:

(क) पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः तत्कृतज्ञता।
(ख) येन केनापि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत्, सः विवेकः इति ईरितः।
(ग) य आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, परेभ्यः अहितं कर्म कदापि च न कुर्यात्।

प्रश्न 4.
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत
प्रश्नाः — उत्तराणि
क. श्लोक संख्या-3
यथा- सत्या मधुरा च वाणी का? — धर्मप्रदा
(क) धर्मप्रदां वाचं कः त्यजति? — …………
(ख) मूढः पुरुषः कां वाणीं वदति? — …………
(ग) मन्दमतिः कीदृशं फलं खादति? — …………
उत्तर:

(क) विमूढधीः
(ख) परुषाम्
(ग) अपक्वम्

ख. श्लोक संख्या-7
यथा- बुद्धिमान् नरः किम् इच्छति?
(क) कियन्ति सुखानि इच्छति? …………
(ख) सः कदापि किं न कुर्यात्? …………
(ग) सः केभ्यः अहितं न कुर्यात्? …………
उत्तर:

(क) प्रभूतानि
(ख) अहितं कर्म
(ग) परेभ्यः

प्रश्न 5.
मञ्जूषायाः तद्भावात्मकसूक्तीः विचित्य अधोलिखितकथानानां समक्षं लिखत
(क) विद्याधनं महत्
(ख) आचारः प्रथमो धर्मः
(ग) चित्ते वाचि च अवक्रता एव समत्वम्

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
विद्याधनं सर्वधनप्रधानम्।
सं वो मनांसि जानताम्।
विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम् ।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।

उत्तर:
(क) विद्याधनं महत्
1. विद्याधनं सर्वधनप्रधानम्।
2. विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम्।

(ख) आचारः प्रथमो धर्मः
1. आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ।
2. आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
1. मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ।
2. सं वो मनांसि जानताम्।

प्रश्न 6.
(अ) अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः
NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः


उत्तर:
शब्दाः — विलोमशब्दः
(क) पक्वः — अपक्वः
(ख) विमूढधीः — सुधीः
(ग) कातरः — अकातरः
(घ) कृतज्ञता — कृतघ्नता
(ङ) आलस्यम् — उद्योगः
(च) परुषा — कोमला

(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः
NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः


(क) प्रभूतम् — भूरि, विपुलम्, बहु।
(ख) श्रेयः — शुभम्, कल्याणम्, शिवम् ।
(ग) चित्तम् — मनः, मानसम्, चेतः।
(घ) सभा — संसद्, समितिः, परिषद्।
(ङ) चक्षुष् — नयनम्, लोचनम्, नेत्रम्।
(च) मुखम् — वदनम्, आननम्, वक्त्रम्।

प्रश्न 7.
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः
NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः


उत्तर:
विग्रहाः — समस्तपदम्
(क) तत्त्वार्थस्य निर्णयः — तत्त्वार्थनिर्णयः
(ख) वाचि पटुः — वाक्पटुः
(ग) धर्मं प्रददाति इति (ताम्) — धर्मप्रदाम्
(घ) न कातरः — अकातरः
(ङ) न हितम् — अहितम्
(च) महान् आत्मा येषाम् — महात्मानः
(छ) विमूढा धी: यस्य सः — विमूढधी:

NCERT 10th Sanskrit (Shemushi) Chapter 9, class 10 Sanskrit (Shemushi) Chapter 9 solutions

Additional Important Questions and Answers

पठित-अवबोधनम् 
I. पठित-सामाग्रयाम् आधारितम् अवबोधनकार्यम् ।
अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत क

(क) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः
NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः


प्रश्ना :
I. एकपदेन उत्तरत
(i) पिता पुत्राय विद्याधनं कदा ददाति?
(ii) पिता पुत्राय कीदृशं विद्याधनं यच्छति?
उत्तर:
(i) बाल्यकाले
(ii) महत्

II. पूर्णवाक्येन उत्तरत
पुत्रः विद्यां प्राप्य किम् अनुभवति?
उत्तर:

पुत्रः विद्यां प्राप्य कृतज्ञतां अनुभवति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) “विद्याधनं” इति पदस्य विशेषणपदं श्लोकात् चित्वा लिखत।
(क) महत्
(ख) पुत्राय
(ग) महान्
(घ) पिता
उत्तर:

(क) महत्

(ii) ‘यच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) पुत्राय
(ख) महत्
(ग) विद्याधनं
(घ) पिता
उत्तर:

(घ) पिता

(iii) ‘कृतघ्नता’ इति पदस्य विलोमपदं किम्?
(क) तपः
(ख) तेपे
(ग) महद्
(घ) कृतज्ञता
उत्तर:

(घ) कृतज्ञता

(iv) ‘शैशवे’ इत्यर्थे किं पदम् प्रयुक्तम्?
(क) बाल्ये
(ख) उक्तिः
(ग) महत् उत्तराणि
(घ) तपः
उत्तर:

(घ) तपः

(ख) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

NCERT 10th Sanskrit (Shemushi) Chapter 9, class 10 Sanskrit (Shemushi) Chapter 9 solutions

प्रश्ना :
I. एकपदेन उत्तरत
(i) नरस्य चित्ते किं भवेत्?
(ii) वाचि किं न भवेत्?
उत्तर:
(i) अवक्रता
(ii) वक्रता

II. पूर्णवाक्येन उत्तरत
चित्ते वाचि च अवक्रता किम् उच्यते?
उत्तर:

चित्ते वाचि च अवक्रता महात्मानः समत्वं उच्यते।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘सरलता’ इत्यर्थे श्लोके किम् पदं प्रयुक्तम्?
(क) अवक्रता
(ख) चित्ते
(ग) तदेव
(घ) तथ्यतः
उत्तर:
(क) अवक्रता

(ii) श्लोकस्य द्वितीये पंक्तौ क्रियापदं किम्?
(क) तत्
(ख) आहुः
(ग) तथ्यतः
(घ) समत्वम्
उत्तर:
(ख) आहुः

(iii) ‘कुटिलता’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) चित्ते
(ख) वाचि
(ग) अवक्रता
(घ) तथ्यतः
उत्तर:
(ग) अवक्रता

(iv) ‘अवक्रता यथा चित्ते तथा वाचि भवेद् यदि’ इति अत्र कति अव्ययपदानि सन्ति?
(क) त्रीणि
(ख) चत्वारि
(ग) द्वे
(घ) पञ्च
उत्तर:
(क) त्रीणि

(ग) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

प्रश्ना :
I. एकपदेन उत्तरत
(i) कीदृशीं वाचं सदा वदेत्?
(ii) यः परुषां वाचं वदति सः कः?
उत्तर:
(i) धर्मप्रदां
(ii) विमूढधीः

II. पूर्णवाक्येन उत्तरत
विमूढधीः कीदृशं फलं त्यक्त्वा किं खादति?
उत्तर:

विमूढधीः पक्वं फलं त्यक्त्वा अपक्वं फलं खादति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत

(i) ‘भुङ्क्ते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) फलं
(ख) पक्वं
(ग) विमूढधीः
(घ) अपक्वं
उत्तर:
(ग) विमूढधीः

(ii) ‘वदेत्’ इति पदस्य पर्यायपदं श्लोकात् अवचित्य लिखत।
(क) अभ्युदीरयेत्
(ख) वाचं
(ग) अभ्यूदीरयेत्
(घ) भुङ्क्त
उत्तर:
(क) अभ्युदीरयेत्

(iii) ‘कोमलां’ इति पदस्य विलोमपदं किम् प्रयुक्तम्?
(क) पक्वं
(ख) परुषां
(ग) प्रदा
(घ) वाचं
उत्तर:
(ख) परुषां

(iv) ‘धर्मप्रदा’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) त्यक्त्वा
(ख) वाचं
(ग) परुषां
(घ) पक्वं
उत्तर:
(ख) वाचं

(घ) वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

NCERT 10th Sanskrit (Shemushi) Chapter 9, class 10 Sanskrit (Shemushi) Chapter 9 solutions

प्रश्नाः
I. एकपदेन उत्तरत
(i) धैर्यवान् मन्त्री कैः न परिभूयते?
(ii) मन्त्री सभायाम् कीदृशः भवे?
उत्तर:
(i) अन्यैः
(ii) अकातरः

II. पूर्णवाक्येन उत्तरत
कीदृशः मन्त्री परैः न परिभूयते?
उत्तर:
वाक्पटुः, धैर्यवान् सभायाम् अपि अकातरः मन्त्री परैः न परिभूयते।

III. प्रदत्तविकल्पेभ्यो शुद्धम् उत्तरम् चित्वा लिखत
(i) ‘न कातरः’ इत्यर्थे श्लोके किं समस्तपदं प्रयुक्तम्?
(क) अकातरः
(ख) मप्यकातरः
(ग) कातरः
(घ) यकातरः
उत्तर:
(क) अकातरः

(ii) ‘परिभूयते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) केन
(ख) परैः
(ग) सः
(घ) अपि
उत्तर:
(ग) सः

(iii) ‘अकातरः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) सभायाम्
(ख) धैर्यवान्
(ग) मन्त्री
(घ) परैः
उत्तर:
(ग) मन्त्री

(iv) ‘धीरः’ इत्यस्य पदस्य विलोमपदं किं प्रयुक्तम्?
(क) धैर्य
(ख) पटुः
(ग) अकातरः
(घ) मन्त्री
उत्तर:
(ग) अकातरः

(च) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥
प्रश्नाः

I. एकपदेन उत्तरत
(i) नरः प्रभूतानि कानि इच्छति?
(ii) नरः कस्य श्रेयं वाञ्छति?
उत्तर:
(i) सुखानि
(ii) आत्मनः

II. पूर्णवाक्येन उत्तरत
किं इच्छन् नरः अहितं न कुर्यात्?
उत्तर:

आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छन् नरः अहितं कर्म न कुर्यात्।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘कल्याणं’ इत्यर्थे श्लोके किं पदं प्रयुक्तम्?
(क) श्रेयः
(ख) प्रभूतानि
(ग) आत्मनः
(घ) सुखानि
उत्तर:
(क) श्रेयः

(ii) ‘कुर्यात्’ इति पदस्य कर्मपदं किम्?
(क) कदापि
(ख) कर्म
(ग) सः
(घ) परेभ्यः
उत्तर:
(ख) कर्म

(iii) ‘सुखानि’ इति पदस्य विशेषणपदं किम्?
(क) श्रेयः
(ख) आत्मनः
(ग) प्रभूतानि
(घ) अहितं
उत्तर:
(ग) प्रभूतानि

(iv) श्लोके ‘यः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) इच्छति
(ख) आत्मनः
(ग) श्रेयः
(घ) सुखानि
उत्तर:
(क) इच्छति

II. प्रश्ननिर्माणम्

I. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरु
(i) विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्
उत्तर:
(क) किम्

(ii) विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?
(क) काः
(ख) कीदृशाः
(ग) कः
(घ) का
उत्तर:
(ख) कीदृशाः

(iii) जनकेन सुताय शैशवे विद्याधनं दीयते।
(क) काय
(ख) कस्यै
(ग) कस्मै
(घ) कस्य
उत्तर:
(ग) कस्मै

(iv) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः भवेत्।
(क) का
(ख) कः
(ग) कस्याः
(घ) कस्य
उत्तर:
(घ) कस्य

(v) साधूनां चित्ते वाचि च सरलता भवति।
(क) का
(ख) काः
(ग) कः
(घ) कि
उत्तर:
(क) का

(vi) धैर्यवान् लोके परिभवं न प्राप्नोति।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्
उत्तर:
(ख) कम्

(vii) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
(क) काम्
(ख) कम्
(ग) केषाम्
(घ) कान्
उत्तर:
(ग) केषाम्

(viii) “आचारः प्रथमो धर्मः” इत्येतद् विदुषां वचः।
(क) काम्
(ख) कान्
(ग) कम्
(घ) केषाम्
उत्तर:
(घ) केषाम्

II. अधोलिखितवाक्येषु रेखांकितपदं आधृत्य प्रश्ननिर्माणं कुरुत।
(i) सदाचारं प्राणेभ्यः अपि विशेषतः रक्षेत्।
(ii) विमूढधीः धर्मप्रदां वाचं न वदति।
(iii) जनकेन स्वसुताय शैशवे विद्याधनं दीयते।
(iv) विवेकी एव तत्त्वार्थस्य निर्णयः कर्तुम् शक्नोति।
(v) साधूनाम् चित्ते वाचि च सरलता भवति।
उत्तर:
(i) केभ्यः
(ii) कः
(iii) कदा
(iv) कः
(v) केषाम्

III. ‘क’ अन्वयः

अधोलिखितयोः श्लोकयोः अन्वयं मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत
(क) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत् ।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥
अन्वयः-यः ………(i)………. वाचं त्यक्त्वा …….. (ii)……. (वाचम्) अभ्युदीरयेत् (सः) विमूढधी: ……. (iii). .. फलं परित्यज्य …(iv). (फलं) भुङ्क्ते।
मञ्जूषा- पक्वं, अपक्वं, धर्मप्रदां, परुषाम् ।
उत्तर:
यः धर्मप्रदां वाचं त्यक्त्वा परुषाम् (वाचम्) अभ्युदीरयेत् (सः) विमूढधीः पक्वं फलं परित्यज्य अपक्वं (फलं) भुङ्क्ते।

(ख) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥

अन्वयः-यः आत्मनः ………..(i)………. प्रभूतानि ………..(ii)……….. च इच्छति स: ……….(iii)………… अहितं कर्म ……….. (iv)……….. न कुर्यात्।
मञ्जूषा- सुखानि, श्रेयः, कदापि, परेभ्यः
उत्तर:
यः आत्मनः श्रेयः, प्रभूतानि सुखानि च इच्छति सः परेभ्यः अहितं कर्म कदापि न कुर्यात् ।

NCERT 10th Sanskrit (Shemushi) Chapter 9, class 10 Sanskrit (Shemushi) Chapter 9 solutions

III. ‘ख’ भावबोधनम्

अधोलिखितस्य कथनस्य समुचितं भावं प्रदत्तविकल्पेभ्यः चित्वा लिखत

(i) “पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।”
(क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।
(ख) पिता पुत्राय विद्यायाः धनं ददाति।
(ग) बाल्ये पिता सुताय विद्याधनं ददाति।
(घ) जनकः स्वबाल्यकाले स्वपुत्राय विद्याधनं यच्छति।
उत्तर:
(क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।

(ii) “आचारः प्रथमः धर्मः, इत्येतद् विदुषां वचः।”
(क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।
(ख) आचारं प्रथमः धर्मः विद्वांसः मन्यन्ते।
(ग) विदुषां आचारः प्रथमः धर्मः।
(घ) विदुषां प्रथमः धर्मः आचारः वर्तते।
उत्तर:
(क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।

(iii) “परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः।”
(क) मूढमतिः पक्वं फलं त्यक्त्वा अपक्वं खादति।
(ख) ये जनाः धर्मयुक्तां वाचं परित्यज्य कठोरां वदन्ति ते मूर्खजनाः पक्वं फलं परित्यज्य अपक्वम् एव खादन्ति।
(ग) मूर्खजनाः पक्वं अपक्वं वा फलं न त्यजन्ति।
(घ) मूढजनाः धर्मप्रदां वाचं यदा कदा वदन्ति।
उत्तर:
(ग) मूर्खजनाः पक्वं अपक्वं वा फलं न त्यजन्ति।

(iv) “विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।”
(क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।
(ख) संसारे विदुषाम् कीर्तिः एव सर्वत्र प्रसरिता भवति।
(ग) अस्य लोकस्य चक्षुष्मन्तः जनाः एव ज्ञानवन्तः भवन्ति।
(घ) लोके नेत्रवन्तः विद्वांसः एव प्रशंसनीयाः।
उत्तर:
(क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।

NCERT 10th Sanskrit (Shemushi) Chapter 9, class 10 Sanskrit (Shemushi) Chapter 9 solutions

IV. प्रसङ्गानुकूलम् उचितार्थम् 

I. रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धं अर्थ चित्वा लिखत।
(i) नरः आत्मनः श्रेयः प्रभूतानि सुखानि इच्छति।
(क) सुन्दराणि
(ख) बहूनि
(ग) कथितानि
(घ) प्रस्तुतानि
उत्तर:
(ख) बहूनि

(ii) मूर्खजनः पक्वं फलं त्यक्त्वा अपक्वम् एव भुङ्कते।
(क) क्षिपति
(ख) पचति
(ग) खादति
(घ) पश्यति
उत्तर:
(ग) खादति

(iii) धर्मप्रदां वाचं त्यक्त्वा परुषां न अभ्युदीरयेत्।
(क) कठोराम्
(ख) सरसाम्
(ग) मधुराम्
(घ) सरलता
उत्तर:
(क) कठोराम्

(iv) चित्ते वाचि च सर्वदा अवक्रता भवेद।
(क) चक्रता
(ख) सुगमता
(ग) कटुता
(घ) सरलता
उत्तर:
(घ) सरलता

V. पर्यायपदानि/विलोमपदानि

प्रश्न  1.
अधोलिखितपदानां पर्यायपदानि लिखत
विमूढधीः, वदने, अकातरः, श्रेयः
उत्तर:

विमूढधीः — मूर्खः, बुद्धिहीनः।
वदने — मुखे, आनने।
अकातरः — वीरः, साहसी।
श्रेयः – कल्याणम्, हितम्।

प्रश्न 2.
अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत
कातरः, गृहीत्वा, पण्डितः, प्रेयः, कृतज्ञः
पदानि — विलोमपदानि

(i) कृतघ्नः — ………….
(ii) श्रेयः — ………….
(ii) वीरः — ………….
(iv) त्यक्त्वा — ………….
(v) विमूढधीः — ………….
उत्तर:
पदानि — विलोमपदानि
(i) कृतघ्नः — कृतज्ञः
(ii) श्रेयः — प्रेयः
(iii) वीरः — कातरः
(iv) त्यक्त्वा — गृहीत्वा
(v) विमूढधीः — गृहीत्वा

NCERT 10th Sanskrit (Shemushi) Chapter 9, class 10 Sanskrit (Shemushi) Chapter 9 solutions

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9: Download PDF

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः

Download PDF: NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 9-सूक्तयः PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit (Shemushi) :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More

NCERT Solutions for All Classes (1 to 12)

Jump to free NCERT solutions, chapter Q&A, and textbooks for any grade

Popular Reference Solutions & Help Books

Step-by-step solutions for Mathematics and Science reference textbooks

Latest School & Board Updates

Real-time date sheets, admit cards, syllabus revisions, and exam notifications

Haryana Board Senior Secondary (12th) 20 Feb 2025
HBSE 12th 2024 Question Papers
View
Haryana Board Secondary (10th) 20 Feb 2025
HBSE 10th 2024 Question Papers
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 9th Model Papers 2025
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 11th Model Papers 2025
View
State Board Primary (1-5) 15 Feb 2025
BHU SET 2025 Application Form
View

Frequently Asked Questions

Common queries regarding NCERT textbook solutions & school curriculum

Are these NCERT solutions available 100% free of charge?

Yes. All NCERT solutions, chapter questions, textbook exercises, and download guides published on IndCareer Schools are completely free for students, parents, and educators without requiring any paid subscription or login.

Which subjects are covered for Class 10?

For Class 1, comprehensive NCERT solutions are provided for Mathematics (Math-Magic / गणित का जादू), English (Marigold & Mridang), and Hindi (Rimjhim / रिमझिम), alongside printable worksheets and textbook PDF downloads.

Are these solutions updated according to the latest CBSE / NCERT guidelines?

Yes. Our academic editorial team continually aligns all solutions and textbook references with the latest National Education Policy (NEP) and the rationalized curriculum issued by NCERT and the Central Board of Secondary Education (CBSE).

How can I download the official NCERT books in PDF format?

You can access official NCERT textbooks by clicking on the textbook links provided in the study content section above or by visiting the Class 1 to 12 NCERT Directory on IndCareer Schools.