Class 10: Sanskrit (Bhav) Chapter 1 solutions. Complete Class 10 Sanskrit (Bhav) Chapter 1 Notes.
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 1-अपठितावबोधनम्
NCERT 10th Sanskrit (Bhav) Chapter 1, class 10 Sanskrit (Bhav) Chapter 1 solutions
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत
प्रश्न 1.
धात्रीफलं सर्वेषु ऋतुषु लाभदायकं भवति। धात्रीफलम् ‘आमलकम्’ इत्यपि कथ्यते। ……….
…………. सर्वतोऽधिकं परम्परेयं धात्रीफलस्य महिमानं प्रकटीकरोति। (पृष्ठ 1)
प्रश्ना :
I. एकपदेन उत्तरत
(क) धात्रीफलं कदा लाभदायकं भवति?
(ख) धात्रीफलस्य अपरं नाम किम्?
(ग) धात्रीफलं कस्मिन् सहायकं भवति?
(घ) सहभोजनेन कीदृशः भावः जागर्ति?
उत्तर:
(क) सर्वेषु ऋतुषु
(ख) आमलकम्
(ग) रक्तकोशिकानिर्माणे
(घ) प्रेम्णः
II. पूर्णवाक्येन उत्तरत
(क) धात्रीफलं कथं बहूपयोगि अस्ति?
(ख) प्राचीनकाले कीदृशी परम्परा आसीत्?
उत्तर:
(क) धात्रीफलं नेत्रयोः ज्योतिवर्धनाय, केशानाम् सौन्दर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि भवति।
(ख) प्राचीनकाले कार्तिकमासस्य नवम्यां तिथौ धात्रीवृक्षस्य अधः सहभोजस्य परम्परा आसीत्।
III. यथानिर्देशं प्रश्नान् उत्तरत
(क) ‘सर्वेषु ऋतुषु’ इत्यनयोः पदयोः किं विशेषणपदम्?
(ख) ‘क्षीयते’ इति क्रियापदस्य विलोमपदं पाठात् चित्वा लिखत।
(ग) ‘स्नेहस्य’ इति पदस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
(घ) ‘अस्य सेवनेन शरीरे रक्ताल्पता न भवति’ इत्यस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर:
(क) सर्वेषु
(ख) वर्धते
(ग) प्रेम्णः
(घ) धात्रीफलाय
IV. अनुच्छेदस्यास्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
‘धात्रीफलम्’ (आमलकम्)
प्रश्न 2
महान् स्वतन्त्रतासेनानी स्वतन्त्रभारतस्य प्रथमः उपप्रधानमंत्री गृहमन्त्री च लौहपुरुष …….
…………… च उच्चतायाः सूचिका वर्तते। (पृष्ठ 2)
प्रश्ना :
I. एकपदेन उत्तरत
(क) भारतस्य प्रथमः उपप्रधानमंत्री गृहमन्त्री च कः आसीत्?
(ख) पटेलमहोदयः कस्मिन् केन्द्रीयां भूमिका निर्वाहितवान्?
(ग) नरेन्द्रमोदीमहोदयेन मूर्तिः कस्मै समर्पिता?
(घ) पटेलमहोदयस्य प्रतिमा केन नाम्ना ख्याता?
उत्तर:
(क) सरदार-वल्लभभाई पटेलमहोदयः
(ख) प्रान्तानाम् एकीकरणे
(ग) राष्ट्राय
(घ) ‘एकतायाः मूर्तिः’ इति
II. पूर्णवाक्येन उत्तरत
(क) कः सर्वेषां भारतीयानां श्रद्धाभाजनः?
(ख) मूर्तेः उच्चता किं सूचयति?
उत्तर:
(क) लौहपुरुष सरदार-वल्लभभाई सर्वेवाम् भारतीयानां श्रद्धाभाजनः।
(ख) मूर्तेः उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतितव्यस्य च उच्चतायाः सूचिका सूचयति।
III. यथानिर्देशं प्रश्नान् उत्तरत
(क) ‘केन्द्रीयां भूमिकाम्’ इत्यनयोः पदयोः किं विशेष्यपदम्?
(ख) ‘तस्यैव जन्मदिवसे ………………… समर्पिता? इत्यस्मिन् वाक्ये ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ग) ‘समीपे’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(घ) ‘महान् स्वतन्त्रतासेनानी जन्म अलभत’ इत्यस्मिन् वाक्ये किं क्रियापदम्?
उत्तर:
(क) भूमिकाम्
(ख) वल्लभभाईपटेल-महोदयाय
(ग) दूरे
(घ) अलभत
IV. अनुच्छेदस्यास्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
‘लौहपुरुषः सरदार वल्लभभाई पटेल महोदयः’
प्रश्न 3
जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्रः धनेशः अस्ति। धनेशस्य ………
…….. शरणं मा गच्छन्तु। (पृष्ठ 3)
प्रश्ना :
I. एकपदेन उत्तरत
(क) साफल्यं लब्धं किं करणीयम्?
(ख) सर्वाणि कार्याणि केन सिध्यन्ति?
(ग) कः असफलः भवति?
(घ) अध्ययनशीलः छात्रः किं प्राप्नोति?
उत्तर:
(क) परिश्रमम्
(ख) परिश्रमेण
(ग) आलसी
(घ) सफलतायाः उच्च शिखरम्
II. पूर्णवाक्येन उत्तरत
(क) ‘उद्यमेनैव …………………. मनोरथैः’ इति उक्तिः किं स्मारयति?
(ख) धनस्य देवी के प्रति गच्छति?
उत्तर:
(क) ‘उद्यमेनैव सिध्यति कार्याणि न मनोरथैः’ इति उक्तिः स्मारयति-‘कर्मसहचरी इच्छा एक साकाररूपताम्’ इति।
(ख) धनस्य देवी लक्ष्मीः उद्योगिनं पुरुष प्रति गच्छति।
III. यथानिर्देशं प्रश्नान् उत्तरत
(क) ‘परिश्रमस्य अवलम्बनं कुर्वन्तु’ इति वाक्ये किं क्रियापदम्?
(ख) ‘कुशाग्रबुद्धिः’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।
(ग) ‘कर्मसहचरी इच्छा’ इत्यनयोः पदयोः किं विशेषणपदम्।
(घ) विद्यार्थी परिश्रमेण ज्ञानं लभते इत्यस्मिन् वाक्ये किं कर्तृपदम्?
उत्तर:
(क) कुर्वन्तु
(ख) मेधावी
(ग) कर्मसहचरी
(घ) विद्यार्थी
IV. अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
‘उद्यमेनैव सिध्यन्ति कार्याणि’
प्रश्न 4
जीवनस्य मूल्यम् अर्थात् ते मानवीयगुणा: ये मानवजीवनम् उत्कर्ष प्रापयन्ति। तेषु प्रमुखाः ………
…… आवश्यकता वर्तते। प्रार्थनासभायामपि एषा शिक्षा स्वीकर्तुं शक्यते। (पृष्ठ 4-5)
प्रश्ना :
I. एकपदेन उत्तरत
(क) मानवः स्वकीयं पुरुषार्थं कृत्वा किं प्राप्नोति?
(ख) कस्य उत्थानाय दयादिगुणानां महती आवश्यकता?
(ग) सर्वाङ्गीणविकासाय केन समं नैतिकमूल्यान्यपि गृहीतव्यानि?
(घ) केषु बाल्यादेव एते संस्काराः स्थापनीयाः?
उत्तर:
(क) जीवनलक्ष्यं
(ख) मानवजीवनस्य
(ग) पुस्तकीयज्ञानेन
(घ) छात्रेषु
II. पूर्णवाक्येन उत्तरत
(क) मनुष्यः वास्तवः मनुष्यः कैः गुणैः भवति?
(ख) प्राचीनकालादेव भारतं विश्वगुरुपदं कथं प्राप्नोत्?
उत्तर:
(क) दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः प्रमुखाः मानवीयगुणाः सन्ति। मनुष्यः वास्तवः मनुष्यः तदैव भवति यदा सः एतैः गुणैः सुशोभितः भवति।
(ख) प्राचीनकालादेव भारतीयसंस्कृते मूल्यपरकगुणानां स्तुतिः भवति। एतैः गुणैः एव भारतं विश्वगुरुपदं प्राप्नोत्।
III. यथानिर्देशम् उत्तरत
(क) ‘सर्वाङ्गीण: विकासः’ अत्र विशेषणपदं किम्?
(ख) ‘भारतं विश्वगुरुपदं प्राप्नोत्’ अत्र प्राप्नोत् इति क्रियापदस्य कर्तृपदं किम्?
(ग) गद्यांशे ‘सज्जितः’ इति पदस्य कृते पर्यायपदं किं प्रयुक्तम्?
(घ) ‘मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति’ अत्र ‘एतेषां’ सर्वनामपदं केभ्यः प्रयुक्तम्?
उत्तर:
(क) सर्वांगीणः
(ख) भारतम्
(ग) सुशोभितः
(घ) मानवीयगुणेभ्यः
IV. अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
उत्तर:
‘मानवीयगुणाः अनिवार्याः’
प्रश्न 5
एकस्मिन् विद्यालये नवमकक्षायाः छात्रेषु अकिञ्चनः इति नामा एकः छात्रः आसीत्। ……
……… एक जीवनं वरम् न तु वैभवस्य सत्यमेवास्ति-दूरतः पर्वताः रम्याः । इति (पृष्ठ 6)
प्रश्नाः
I. एकपदेन उत्तरत
(क) अकिञ्चनस्य कक्षायाः अन्ये छात्राः कीदृश-परिवारेभ्यः आसन्?
(ख) अकिञ्चनस्य मनसि किम् प्राविशत्?
उत्तर:
(क) सम्पन्नपरिवारेभ्यः
(ख) हीनभावना
II. पूर्णवाक्येन उत्तरत
(क) अकिञ्चनस्य पिता कः आसीत्?
(ख) अकिञ्चनः हीनभावनया किम् अचिन्तयत्?
उत्तर:
(क) अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थश्रेण्याः कर्मकरः आसीत्।
(ख) अकिञ्चनः हीनभावनया अचिन्तयत् यत् एतेषां सहपाठिनां जीवनं धन्यम् अस्ति।
III. यथानिर्देशम् उत्तरत
(क) ‘सम्पन्नान्’ इति पदस्य विशेष्यपदं किम् अस्ति?
(ख) ‘आस्ताम्’ इति पदस्य कर्तृपदं किम् अस्ति?
(ग) ‘निकटतः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(घ) ‘वैभवः तम् अवदत्’ इति वाक्यांशे ‘तम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर:
(क) छात्रान्
(ख) मातापितरौ
(ग) दूरतः
(घ) अकिञ्चनाय
IV. गद्यांशं पठित्वा यथोचितं शीर्षकं लिखत।
उत्तर:
‘दूरतः पर्वताः रम्याः’
प्रश्न 6.
विधात्रा निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी। प्रकृतेः शोभा वस्तुतः अतीव ……….
…… प्रदूषितजलोपयोगः तु सर्वेषां व्याधीनां मूलभूतमेव।
तस्मादस्कामं सर्वेषामेव कर्तव्यमिदं यदत्रतत्रसर्वत्र अवकररहितस्य वातावरणस्य ……
………….. सर्वे सन्तु निरामयाः इति भावनां बलं प्राप्नुयाम।
प्रश्ना :
I. एकपदेन उत्तरत
(क) मुख्यतया प्रदूषणं कतिविधं भवति?
(ख) ध्वनिप्रदूषणेन कस्याः हानिः भवति?
(ग) केन निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी?
(घ) सर्वैः मिलित्वा प्रदूषणावरोधाय किम् विधेयम्?
उत्तर:
(क) त्रिविधम्
(ख) श्रवणशक्तेः
(ग) विधात्रा
(घ) प्रयासम्
II. पूर्णवाक्येन उत्तरत
(क) अद्यत्वे अस्माकं स्वास्थ्यहानिः कथं भवति?
(ख) वयं मिलित्वा का भावनां बलं प्राप्नुयाम?
उत्तर:
(क) विकासशीलैः मानवैः विकासेन सह प्रदूषणमपि वर्धितं, येन अद्यत्वे अस्माकं स्वास्थ्यहानिः भवति।
(ख) वयं मिलित्वा ‘सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः’ इति भावना बलं प्राप्नुयाम।
III. यथानिर्देशमुत्तरत
(क) सततम्/अनवरतम् इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
(ख) ‘क्षीयते’ इति पदस्य विपरीतार्थकं पदम् अनुच्छेदात् चित्वा लिखत।
(ग) ‘सौन्दर्यमयी सृष्टिः’ अत्र विशेष्यपदं किम्?
(घ) ‘विकासेन सह प्रदूषणमपि वर्धितम् येन स्वास्थ्यहानिः भवति’ अत्र ‘भवति’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तर:
क) निरन्तरं
(ख) वर्धते
(ग) सृष्टिः
(घ) स्वास्थ्यहानिः
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
‘पर्यावरण संरक्षणीयम्’
प्रश्न 7.
अद्यत्वे यत्र तत्र सर्वत्र वयं पश्यामः यत् उष्णतायाः प्रभावः दिनानुदिनं वर्धते। …….
…. अधिकाधिकं वृक्षारोपणं कृत्वा वनसंरक्षणं प्रत्यपि ध्यानं दातव्यम्। (पृष्ठ 8)
प्रश्नाः
I. एकपदेन उत्तरत
(क) कस्य ज्वालनेन विषाक्तवायूनाम् उत्सर्जने वृद्धिर्जायते?
(ख) कीदृशम् औद्योगीकरणं निवारणीयम्?
(ग) कस्मिन् असन्तुलनात् वैश्विकी उष्णता वर्धते?
(घ) वृक्षारोपणं कृत्वा किं प्रत्यपि ध्यानं दातव्यम्?
उत्तर:
(क) जीवाश्मेन्धनस्य
(ख) अनियन्त्रितम्
(ग) पर्यावरणे
(घ) वनसंरक्षणम्
II. पूर्णवाक्येन उत्तरत
(क) वैश्विकी उष्णता कथं वर्धते?
(ख) वैश्विकोष्णतायाः स्थितेः संशोधनाय ऊर्जसं प्रति कथं ध्यानं दातव्यम्?
उत्तर:
(क) पर्यावरणे असन्तुलात् वैश्विकी उष्णता वर्धते।
(ख) वैश्विकोष्णतायाः स्थितेः संशोधनाय प्रयासः करणीयः। एतदर्थम् नेत्रयोः ऊर्जार्थम् उपायान्वेषणं करणीयम्। सामान्यविद्युदपेक्षया पवनोर्जसं, सोरोर्जसं प्रति च ध्यानं दातव्यम्।
III. यथानिर्देशम् उत्तरत
(क) ‘दूरीकरणाय’ अस्य कृते किं पदम् अनुच्छेदे प्रयुक्तम्?
(ख) ‘वृक्षकर्तनम्’ इति पदस्य विपरीतार्थकपदम् अनुच्छेदात् चित्वा लिखत।
(ग) ‘उष्णतायाः प्रभावः दिनानुदिनं वर्धते’ अस्मिन् वाक्ये ‘वर्धते’ इति क्रियापदस्य कर्तृपदं किम्?
(घ) ‘अनियन्त्रितम् औद्योगीकरणम्’ अत्र विशेषणपदं किम्?
उत्तर:
(क) निराकरणाय
(ख) वृक्षारोपणम्
(ग) प्रभावः
(घ) अनियन्त्रितम्
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
‘वनसंरक्षणं कर्त्तव्यम्’
प्रश्न 8.
मानवः विकासशीलः। वयं पश्यामः यत् अस्माकं देशस्य जनसङ्ख्या सुरसामुखमिव
…… अस्माभिः प्रकृतिमातुः संरक्षणपूर्वकं विकासस्य दिशि प्रयतितव्यम्। (पृष्ठ 9)
प्रश्नाः
I. एकपदेन उत्तरत
(क) जनसङ्ख्या कथम् वर्धते?
(ख) बहुभूमिक-भवनेषु उपरिगमनम् अधः आगमनं केन सुकरं भवति?
(ग) विकासं प्रति अन्धधावनशील: मानवः कस्याः उपेक्षां करोति?
(घ) नगरेषु महानगरेषु च केषां प्रचलनं वर्तते?
उत्तर:
(क) सुरसामुखमिव
(ख) उन्नयनयन्त्रेण
(ग) प्रकृतेः
(घ) बहुभूमिकभवनानां
II. पूर्णवाक्येन उत्तरत
(क) प्रचुरनिवासस्थानस्य कृते मानवः किं कृतवान्?
(ख) बहुभूमिकभवनानां परिसरे कानि सुविधासाधनानि भवन्ति?
उत्तर:
(क) प्रचुरनिवासस्थानस्य कृते मानवः नवीनाविष्कारपरम्परायां लघुस्थाने बहुभूमिकभवनानां निर्माण कृतवान्।
(ख) बहुभूमिकभवनानां परिसरे एव देवालयः, तरणतालः, समाजसदनं, ‘जिम’ इति व्यायामस्थानम्, उद्यानम् इत्यादीनि उपयोगीनि सुविधाप्रदायकसाधनानि भवन्ति।
III. यथानिर्देशम् उत्तरत
(क) ‘मानवः बहुभूमिकभवनानां निर्माणं कृतवान्’-अत्र किं क्रियापदम्?
(ख) ‘एतादृशानि भवनानि’-अनयोः पदयोः किं विशेष्यपदम्?
(ग) ‘अद्यत्वे बहुभूमिकभवनानां प्रचलनं वर्तते’-अत्र किम् अव्ययपदम्?
(घ) ‘उचितम्’-इति पदस्य किं विपरीतार्थकं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तर:
(क) कृतवान्
(ख) भवनानि
(ग) अद्यत्वे
(घ) अनुचितम्
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
‘बहुभूमिकभवनानि’
NCERT 10th Sanskrit (Bhav) Chapter 1, class 10 Sanskrit (Bhav) Chapter 1 solutions
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 1: Download PDF
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 1-अपठितावबोधनम्
Download PDF: NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 1-अपठितावबोधनम् PDF
Chapterwise NCERT Solutions for Class 10 Sanskrit (Bhav) :
- Chapter 1-अपठितावबोधनम्
- Chapter 2-पत्रलेखनम्
- Chapter 3-अनुच्छेदलेखमन्
- Chapter 4-चित्रवर्णनम्
- Chapter 5-रचनानुवादः (वाक्यरचनाकौशलम्)
- Chapter 6-सन्धिः
- Chapter 7-समासा:
- chapter 8-प्रत्यया:
- Chapter 9-अव्ययानि
- Chapter 10-समय:
- Chapter 11-वाच्यम्
- Chapter 12-अशुद्धिसंशोधनाChapter 13-मिश्रिताभ्यासः
- Sanskrit : आदर्शप्रश्नपत्रम्
About NCERT
The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.