NCERT Secondary (10th) Private Session 2025-26 Free Open Access

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः

Class 10: Sanskrit Grammar solutions. Complete Class 10 Sanskrit Grammar Notes. NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः NCERT 10th Sanskrit Grammar,...

Curriculum NCERT
Applicable Grade Class 10
Medium English & Hindi
Resource Format Chapter Q&A / PDF

Textbook Solutions & Academic Guide

Verified chapter-wise solutions, answers, and study notes

Curriculum & Exam Preparation Note: Regular practice of NCERT textbook exercises and chapter-end questions establishes strong conceptual clarity for primary and secondary examinations.

Class 10: Sanskrit Grammar solutions. Complete Class 10 Sanskrit Grammar Notes.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः

NCERT 10th Sanskrit Grammar, class 10 Sanskrit Grammar solutions

प्रश्न 1.
उदाहरणमनुसृत्य रिक्तस्थानानां पूर्तिः कोष्ठकात् समुचितैः समस्तपदैः कुरुत-

उदाहरण- तौ लवकुशौ वाल्मीके: आश्रमे पठतः (लवकुशे / लवकुशौ)
(क) __________ जनः नित्यकर्म कृत्वा प्रातराशं करोति। (विशालवृक्षः / सुप्तोत्थितः)
(ख) त्रयाणां लोकानां समाहारः __________ इति कथ्यते। (त्रिलोकी / त्रिलोकम्)
(ग) ऋषे आश्रमः __________ अस्ति। (प्रतिगृहम् / उपगङ्गम्)
(घ) तव __________ मलिनम् अस्ति। (पाणिपादाः / पाणिपादम्)
(ङ) __________ सैनिकः व्रणयुक्तः जातः। (स्वर्गपतित: / अश्वपतितः)
(च) __________ जीवनस्य उद्देश्याः सन्ति। (धर्मार्थकाममोक्ष / धर्मार्थकाममोक्षाः)
उत्तराणि:
(क) सुप्तोत्थितः
(ख) त्रिलोकी
(ग) उपगङ्गम्
(घ) पाणिपादम्
(ङ) अश्वपतितः
(च) धर्मार्थकाममोक्षाः

प्रश्न 2.
अधोलिखितवाक्येषुस्थूलपदानि आश्रित्यसमस्तपदविग्रहंवालिखित-

यथा- भिक्षुकः प्रत्येकं गृहं गच्छति। – एकम् एकम् इति
(क) शरणम् आगतः तु सदैव रक्षणीयः। – __________
(ख) विद्यया हीनः छात्रः न शोभते। – __________
(ग) असत्यं तु त्याज्यं भवति। – __________
(घ) रामः महारातः आसीत्। – __________
(ङ) सीता च रामः च वनम् अगच्छताम्। – __________
(च) तडागः नीलोत्पलैः शुभोभतते – __________
उत्तराणि:
(क) शरणागतः
(ख) विद्याहीनः
(ग) न सत्यम्
(घ) महान् राजा / महान् च असौ राजा
(ङ) सीतारामौ
(च) नीलानि च तानि उत्पलानि, तैः।

NCERT 10th Sanskrit Grammar, class 10 Sanskrit Grammar solutions

प्रश्न 3.
उदाहरणानि पठित्वा तदनुसारं विग्रहं समासनामानि च लखित।

उदाहरण-
पाणी च पादौ च तेषां समाहारः – पाणिपदाम् (समाहार द्वन्द्व)
माता च पिता च इति – मातापितरौ (इतरेतर द्वन्द्व)
माता च पिता च इति – पितरौ (एकशेष)

(क) ब्राह्मणौ – __________
(ख) सुखदुःखम् – __________
(ग) शिरोग्रीवम् – __________
(घ) रामलक्ष्मणभरताः – __________
(ङ) अजौ – __________
(च) बालकाः – __________
(छ) शास्त्रप्रवीणः – __________
(ज) नरसिंहः – __________
(झ) प्रत्यक्षम् – __________
(ञ) दशाननः – __________
उत्तराणि:
(क) ब्राह्मणः च ब्राह्मणः च (एकशेष)
(ख) सुखम् च दुःखम् च तयोः समाहारः (समाहार द्वंद्व)
(ग) शिरः च ग्रीवा च तयोः समाहार (समाहार द्वंद्व)
(घ) रामः च लक्ष्मण च भरतः च (इतरेतर द्वंद्व)
(ङ) अजा च अज्ञः च/अजः च अजः च (एकशेष)
(च) बालकः च बालकौ च (एकशेष)
(छ) शास्त्रेषु प्रवीणः (सप्तमी तत्पुरुष)
(ज) नरः सिंहः इव (कर्मधारयः)
(झ) अक्षम् अक्षम् इति (अव्ययीभावः)
(ञ) दश आननानि यस्य सः (बहुव्रीहिः)

प्रश्न 4.
अधोलिखितवाक्येषु समस्तपदं चित्वा तस्य विग्रहं लिखित-

समस्तपदम् – विग्रहम्
(क) विष्णुः पीताम्बरं धारयति। – __________
(ख) भवतः कार्यं निर्विघ्नं समापयेत्। – __________
(ग) दुर्गासप्तशती पठितव्या। – __________
(घ) शरविद्धः हंसः भूमौ पतितः। – __________
(ङ) वृद्धः पुत्रपौत्रम् दृष्ट्वा प्रसीदति। – __________
(च) विष्णु चक्रपाणिः कथ्यते। – __________
उत्तराणि:
(क) पीताम्बर – पीतम् च तत् अम्बरम्।
(ख) निर्विघ्नं – विघ्नानाम् अभावः।
(ग) सप्तशती – सप्तनाम् शतस्य समाहारः।
(घ) शरविद्धः – शरेण विद्धः।
(ङ) पुत्रपौत्रम् – पुत्रः च पौत्रः च तयोः समाहारः।
(च) चक्रपाणि – चक्रम् पाणौ यस्य सः।

अभ्यासः

प्रश्न 1.
अधोलिखितेषु रेखाङ्कितपदेषु समासं कृत्वा लिखत-

1. पितामहः – वत्स, पुष्पाणाम् वाटिका।
2. पितामहः – महान् आत्मा यस्य सः।
3. अष्टावक्र: जनकस्य सभाम् अगच्छत्।
4. गुरोः समीपम् स्थित्वा जनकः ज्ञान प्राप्तवान्।
5. अर्धः घटः नूनं घोषमुपैति।
6. कुमारस्य सम्भवः हर्षवर्धकः भवति।
7. “पीतानि अम्बराणि यस्य सः” इति देवस्य इदं मन्दिरम् अस्ति।
8. युधिष्ठिरः पाण्डवानाम् अग्रजः आसीत्।
9. बालकाः क्रीडायाः क्षेत्रे क्रीडन्ति।
10. एकदा सिद्धः अर्थः यस्य सः विहाराय नगरम् अगच्छत्।
11. बालकाः विद्यायाः आलये पठन्ति।
12. शक्तिम् अनतिकस्य कृत कार्यम् उत्तमं फलं ददाति?
13. वृक्षम् आरुढाः वानराः कूर्दन्ति।
14. सर्वेभ्यः मधुरम् वचनं रोचते?
15. शतस्य अब्दानाम् समाहारः एकेन पदेन किं कथ्यन्ते?
16. हंसस्य पक्षाः दुग्धम् इव धवलाः।
17. धर्मप्रदां वाचं मूढा बुद्धिः यस्य सः त्यजति?
18. विद्यायाः पराङ्मुखम् यस्य सः लोके आदरं न लभते?
19. शिष्याय उपादेयं गुरुणाम् वचनम् अस्ति।
20. युष्माकं विद्यालये महान् उत्सवः कदा अस्ति?
21. त्व समयम् अनतिक्रम्य विद्यालयम् गच्छसि?
22. सः एव धन्यः यः शरणम् आगतस्य रक्षां करोति।
23. जनाः देशस्य भक्तान् पूजयन्ति।
24. माता च पिता च आगच्छतः।
25. सः पीतम् अम्बरं धारयति।
26. कूपम् प्राप्तः काकः जलम् अलभत।
27. सा विधिम् अनतिक्रम्य गणितम् शिक्षते।
28. सः नरः श्रेष्ठः यः शरणम् आश्रितस्य पालनं करोति।
29. त्वं शक्तिम् अनतिक्रम्य परिश्रमं करोषि।
30. धन्याः राज्ञः सेवकाः ये तं रक्षन्ति।
31. तौ पाणी च पादौ च प्रक्षालयतः।
32. अष्टावक्र: जनकस्य सभाम् अगच्छत्।
33. सरोवरे नीलानि उत्पलानि शोभन्ते।
34. अहं भवतः शरणम् आगताः अस्मि।
35. रामः च लक्ष्मणः च विश्वामित्रस्य शिष्यौ आस्ताम्।
36. ब्रह्मचर्याश्रमे शिक्षायाः ग्रहणे स्त्रीणाम् पुरुषाणाम् च समानः अधिकारः आसीत्।
37. किन्तु महान् आत्मा यस्य सः जनकः तस्य योग्यतां ज्ञात्वा तं स्वगुरुम् अमन्यत।
उत्तराणि:
1. पुष्पवाटिका
2: महात्मा
3. जनकसभाम्
4. उपगुरु
5. अर्धघटः
6. कुमारसम्भवः
7. पीताम्बरः
8. पाण्डवाग्रजः
9. क्रीडाक्षेत्रे
10. सिद्धार्थः
11. विद्यालये
12. यथाशक्ति
13. वृक्षारूढाः
14. मधुरवचनम्
15. शताब्दी
16. दुग्धधवलाः
17. मूढबुद्धिः
18. विद्यापराङ्मुखः
19. गुरुवचनम्
20. महोत्सवः
21. यथासमयम्
22. शरणागतस्य
23. देशभक्तान्
24. मातापितरौ
25. पीताम्बर्
26. कूपप्राप्तः
27. यथाविधि
28. शरणाश्रितस्य
29. यथाशक्ति
30. राजसेवकाः
31. पाणिपादम्
32. जनकसभाम्
33. नीलोत्पलानि
34. शरणागता
35. रामलक्ष्मणौ
36. समानाधिकारः
37. महात्मा

NCERT 10th Sanskrit Grammar, class 10 Sanskrit Grammar solutions

प्रश्न 2.
अधोलिखिते संवादे रेखाङ्कितपदेषु समास-विग्रहं कृत्वा लिखत-

1. मानवजीवनम् चतुर्षु आश्रमेषु विभक्तम्।
2. कोऽपि जनः तत्र अशिक्षितः न आसीत्।
3. पितामहः – पीतपुष्पाणि।
4. पितामहः – कोकिलमयूरौ।
5. जनकसुता सीता आसीत्।
6. तस्य वक्रदेहम् दृष्ट्वा सर्वे पण्डिताः अहसन्।
7. ‘पञ्चवटी‘ इति स्थाने सीता रामः लक्ष्मणश्च अवसन्।
8. काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः?
9. सरसि नीलोत्पलानि शोभन्ते।
10. सुखदुःखे समे कृत्वा जीवनं यापयत।
11. यशोदा श्रीकृष्णस्य मुखचन्द्रं पश्यति।
12. इदं स्थान निर्मक्षिकम् अस्ति अतः अत्र रोगाः नवर्तन्ते।
13. चक्रपाणिः आसीत् अर्जुनस्य सारथिः?
14. तुभ्यं किं नीलकमलं रोचते?
15. अर्जुनस्य सारथिः पीताम्बरः आसीत्?
16. नरः साधुवृत्ति समाचरेत्?
17. विमूढधीः अपक्वं फलं भुङ्क्ते?
18. मधुरवचनं विना भाषणं व्यर्थम् एव अस्ति।
19. पीताम्बरः कुत्र न वसति?
20. पश्यतु इदं सचित्रं पुस्तकम्।
21. नीलकण्ठः हिमालये वसति।
22. नीलकण्ठः हिमालये तपते।
23. बालकः अष्टध्यायीं स्मरति।
24. चक्रपाणिः सागरे शेते।
25. शङ्खपाणिः विष्णुः वर्तते।
26. स जलजं पश्यति।
27. काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
28. अयं संसारः मरणशीलः अस्ति।
29. सरोवरे नीलकमलानि शोभन्ते।
30. विनयशीलः बुद्धः शास्त्रपारङ्गतः आसीत्।
31. सः प्रतिदिनं दानं करोति स्म।
32. सः प्रजाभ्यः धनधान्यं दातुं दानशालाः अकारयत्।
33. गृहस्थाश्रमे जनाः यथाशक्ति धनम् अन्नम् च दत्त्वा अन्येषाम् आश्रमवासिनां रक्षां कुर्वन्ति स्म।
34. ‘पञ्चवटी’ इति स्थाने वने रामः लक्ष्मणेन सीतया च सह अवसत्।
उत्तराणि:
1. मानवस्य जीवनम्
2. न शिक्षितः
3. पीतानि पुष्पाणि
4. कोकिलः च मयूरः च
5. जनकस्य सुता
6. वक्रम् देहम्
7. पञ्चानां वटानां समाहारः
8. पिकश्च काकश्च तयोः
9. नीलानि उत्पलानि
10. सुखं च दु:खं च
11. मुखम् चन्द्रः इव
12. मक्षिकाणाम् अभावः
13. चक्रम् पाणौ यस्य सः
14. नीलम् कमलम्
15. पीतानि अम्बराणि यस्य सः
16. साधुनाम् वृत्तिम्
17. विमूढाः धीः यस्य सः
18. मधुरम् वचनम्
19. पीतानि अम्बराणि यस्य सः
20. चित्रेण सहितम्/सह
21. नीलः कण्ठः यस्य सः
22. नीलः कण्ठः यस्य सः
23. नीलम् कमलम्
24. चक्रम् पाणौ यस्य स:
25. शङ्खम् पाणौ तस्य स:
26. जले जायजे इति
27. पिकः च काकः च तयोः
28. मरणम् एव शीलं यस्य सः
29. नीलम् कमलम्, तानि/नीलानि कमलानि
30. विनयः एव शीलः यस्य सः
31. दिने दिने इति
32. धनम् च धान्यम् च
33. शक्तिम् अनतिक्रम्य
34. पञ्चानाम् वटानाम् समाहारः।

प्रश्न 3.
अधुना अधोलिखितानि पदानि योजयित्वा समस्तपदानि रचयत-

(अब निम्नलिखित पदों को जोड़कर समस्त पद बनाइए।)
(क) कर्मणि कुशलः
(ख) प्रजानां पालकः
(ग) रघोः वंशः
(घ) कुमारस्य सम्भवः
(ङ) राष्ट्रपतेः भवनम्
उत्तराणि:
(क) कर्मकुशलः
(ख) प्रजापालकः
(ग) रघुवंशः
(घ) कुमारसम्भवम्
(ङ) राष्ट्रपतिभवनम्।

प्रश्न 4.
अधोलिखितविग्रहान् पठत, तेषां समक्षं समस्तपदानि लिखत-

यथा- (क) वृक्षस्य मूले – वृक्षमूले
(ख) आत्मनः रक्षायै – __________
(ग) ग्रामं गतः – __________
(घ) वातानुकूलनाय यन्त्राणि – __________
(ङ) मानवस्य शक्तिः – __________
(च) वने वसति इति – __________
(छ) मानवेन निर्मितम् – __________
(ज) आपणं गतानि – __________
(झ) यन्त्रस्य दर्शनेन – __________
(ञ) यन्त्रेण चालितम् – __________
(ट) सञ्चाराय मार्गाः – __________
(ठ) विज्ञानस्य अधीनः – __________
(ड) यन्त्रेण निर्मितानि – __________
(ढ) विद्युतः व्यजनानि – __________
(ण) शीतस्य निवारणाय – __________
(त) आश्चर्येण विमूढः – __________
(थ) घटिकाभ्यः पतत् – __________
(द) भोजनाय सामग्री – __________
(ध) परिधानाय वस्त्राणि – __________
(न) शरीरस्य शोभायै – __________
(प) ग्रीष्मस्य तापस्य हरणाय – __________
उत्तराणि:
(क) वृक्षमूले
(ख) आत्मरक्षायै
(ग) ग्रामगतः
(ङ) मानवशक्तिः
(च) वनवासम्
(छ) मानवनिर्मितम्
(झ) यन्त्रदर्शनेन
(ज) यन्त्रचालितम्
(ट) सञ्चारमार्गाः
(ड) यन्त्रनिर्मितानि
(ढ) विद्युद्व्यजनानि
(ण) शीतनिवारणाय
(थ) घटिकापतत्
(द) भोजनसामग्री
(ध) परिधानवस्त्राणि
(प) ग्रीष्मतापहरणाय

प्रश्न 5.
अधोलिखिततालिकां पूरयत।

यथा-
(क) जले जायते इति – जलजम्
(ख) __________ – तोयजम्
(ग) __________ – नीरजम्
(घ) अम्बुनि जायते इति – __________
(ङ) अम्भसि जायते इति – __________
(च) वारि ददाति इति – वारिदः
(छ) जलम् ददाति इति – __________
(ज) __________ – पयोदः
(झ) अम्बु ददाति इति – __________
(ञ) अम्भः ददाति इति – __________
(ट) वारि अस्मिन् धीयते इति – वारिधिः
(ठ) __________ – जलधिः
(ड) __________ – पयोधिः
(ढ) __________ – अम्भोधिः
(ण) महीं पाति (रक्षति) इति – __________
(त) नृन् पाति इति – __________
(थ) भुवं पालयति इति – __________
(द) भुवं पाति इति – भूपाल:
(ध) महीं पालयति इति – __________
(न) पृथ्वीं पालयति इति – __________
(प) पादैः पिबति इति – पादपः
(फ) मधु पिबति इति – __________
(ब) खे (आकाशे) गच्छति इति – खगः
(भ) विहायसि गच्छति इति – __________
(म) खे चरति इति – __________
(य) अण्डात् जायते इति – __________
(र) महीं धारयति इति – महीधरः
उत्तराणि:
जलजम्
(ख) तोये जायते इति
(ग) नीरे जायते इति
(घ) अम्बुजम्
(ङ) अम्भोजम्
(च) वारिदः
(छ) जलदः
(ज) पयः ददाति इति
(झ) अम्बुदः
(ञ) अम्भदः
(ट) वारिधिः
(ठ) जले अस्मिन् धीयते इति
(ड) पयसि अस्मिन् धीयते इति
(ढ) अम्भसि अस्मिन् धीयते इति
(ण) महीप:
(त) नृपः
(थ) भूपः
(द) भूपाल:
(ध) महीपाल:
(न) पृथ्वीपालः
(प) पादपः
(फ) मधुपः
(ब) खगः
(भ) विहगः
(म) खेचरः
(य) अण्डजः
(र) महीधरः

प्रश्न 6.
अधोलिखितविग्रहपदानि पठित्वा समस्तपदानि रचयत। (निम्नलिखित विग्रह पदों को पढ़कर समस्तपद बनाइए।)

यथा-
न मतम् – अमतम्

(क) न विज्ञातम् – __________
(ख) न दृष्टम् – __________
(ग) न परीक्षितम् – __________
(घ) न श्रुतम् – __________
(ङ) न पठितम् – __________
(च) न धार्मिकः – __________
(छ) न ऋतम् – __________
(ज) न उपस्थितः – __________
(झ) न आदरः – __________
उत्तराणि:
(क) अविज्ञातम्
(ख) अदृष्टम्
(ग) अपरीक्षितम्
(घ) अश्रुतम्
(ङ) अपठितम्
(च) अधार्मिकः
(छ) अनृतम्
(ज) अनुपस्थितः
(झ) अनादरः

प्रश्न 7.
अधोलिखितसूक्तिषु नञ्-तत्पुरुषस्य उदाहरणानि रेखाङ्कितानि कुरुत।

(अधोलिखित सूक्तियों में नञ्-तत्पुरुष के उदाहरण रेखांकित कीजिए।)
(क) न अनृतं ब्रूयात्।
(ख) अविवेकः परमापदां पदम्।
(ग) न अपरीक्षितम् अभिनिविशेत्।
(घ) किं हेयम्? अकार्यम्।
(ङ) किं जीवितम्? अनवद्यम्।
उत्तराणि:
(क) अनृतं
(ख) अविवेकः
(ग) अपरीक्षितम्
(घ) अकार्यम्
(ङ) अनवद्यम्।

प्रश्न 8.
अधोलिखितेषु वाक्येषु संयोज्य इतरेतरद्वन्द्वसमस्तपदानि रचयत।

(क) रामः च लक्ष्मण च __________ विश्वामित्रस्य शिष्यौ आस्ताम्।
(ख) लक्ष्मणः, शत्रुघ्न च __________ सुमित्रायाः पुत्रौ आस्ताम्।
(ग) नकुलः सहदेवः च __________ मायाः पुत्रौ आस्ताम्।
(घ) युधिष्ठिरः, भीमः, अर्जुनः च __________ कुन्त्याः पुत्राः आसन्।
(ङ) वसिष्ठः च विश्वामित्रः च __________ आचार्यों आस्ताम्।
उत्तराणि:
(क) रामलक्ष्मणौ
(ख) लक्ष्मणशत्रुघ्नौ
(ग) नकुलसहदेवौ
(घ) युधिष्ठिरभीमार्जुनाः
(ङ) वसिष्ठविश्वामित्रौ।

प्रश्न 9.
अधोलिखितेषु कोष्ठेषु समाहारद्वन्द्वसमस्तपदानि पूरयत। सहायतार्थं सूची प्रदत्ता अस्ति।

(क) पाणी च पादौ च __________ प्रक्षाल्य भोजनं कुरु।
(ख) तव पुत्राः च पौत्राः च __________ चिरं जीवन्तु।
(ग) शीतं च उष्णं च __________ योगिनं न बाधते।
(घ) शुकेन कोटरात् शिरः च ग्रीवा च __________ बहिः प्रसार्यते।
(ङ) धीराय सम्पत् च विपत् च __________ समम्।
उत्तराणि:
(क) पाणिपादम्
(ख) पुत्रपौत्रम्:
(ग) शीतोष्णम्
(घ) शिरोग्रीवम्
(ङ) सम्पद्विपदम्।

सहायतार्थं सूची – सम्पद्विपदम्, पाणिपादम्, शीतोष्णम्, पुत्रपौत्राः, शिरोग्रीवम्

प्रश्न 10.
अधोलिखितेषु समस्तपदेषु द्विगुसमस्तपदानि रेखाङ्कितानि कुरुत-

सप्तबालकाः, सप्तपर्णी, अष्टाध्यायी, चतुर्वेदम्, अष्टवादने, चतुर्युगम्, चतुर्मुखानि, नवरत्नम्, नवरात्रम्, नवदिनानि, अष्टांगम्।
उत्तराणि:
सप्तपर्णी, अष्टाध्यायी, चतुर्युगम्, नवरत्नम्, नवरात्रम्, अष्टांगम्, चतुर्वेदम्।

प्रश्न 11.
अधोलिखितसमस्तपदानां विग्रहं कुरुत-
यथा-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः


उत्तराणि:
(ख) श्रान्तः पथिकः (श्रान्त स्थाने श्रान्तः)
(ग) महान् आत्मा
(घ) स्वच्छम् जलम्
(ङ) उन्नतः प्रासादः
(च) शीतलम् सलिलम्।

प्रश्न 12.
समस्तपदानि रचयत। (समस्त पद बनाइए।)

यथा- (क) महान् पुरुषः – महापुरुषः
(ख) पवित्रं मनः – __________
(ग) विस्तृता नाटिका – __________
(घ) पुष्पितः वृक्षः – __________
(ङ) विकसितानि पुष्पाणि – __________
उत्तराणि:
(ख) पवित्रमनः
(ग) विस्तृतनाटिका
(घ) पुष्पितवृक्षः
(ङ) विकसितपुष्पाणि।

प्रश्न 13.
अधोलिखितविग्रहाणां स्थाने समस्तपदानि लिखत। (निम्नलिखित विग्रहों के स्थान पर समस्त पद लिखिए।)

(क) यथा- कमलम् इव नयनम् – कमलनयनम्

(क) पर्वतः इव उन्नतः – __________
(ख) उत्पलम् इव कोमलम् – __________
(ग) पुत्रः इव नकुलः – __________
(घ) सलिलम् इव शीतलम् – __________
उत्तराणि:
(क) पर्वतोन्नतः
(ख) उत्पलकोमलम्
(ग) नकुलपुत्रः / पुत्रनकुलः
(घ) शीतलसलिलम्।

(ख) यथा- सुभाषितम् रत्नम् इव – सुभाषितरत्नम्

(क) मुखं चन्द्रः इव – __________
(ख) हिमकणं मौक्तिकम् इव – __________
(ग) गीता अमृतम् इव – __________
उत्तराणि:
(क) चन्द्रमुखम्
(ख) मौक्तिकहिमकणम्
(ग) गीतामृतम्।

प्रश्न 14.
अधोलिखितविग्रहाणां स्थाने समस्तपदानि लिखत-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः


उत्तराणि:
(ग) पतितपर्णम्
(घ) पतितपर्णः
(ङ) पीताम्बरम्
(च) पीताम्बरः
(छ) वृक्षारूढः
(ज) आरूढवृक्षः
(झ) दशाननानि
(ञ) दशाननः
(ट) कृताभिषेकः
(ठ) कृताभिषेकः
(ड) ग्रीष्मवसन्तशिशिराः
(ढ) रामसीते
(ण) फलपुष्पाणि
(त) पशुपक्षिणः
(थ) पितापुत्रौ

प्रश्न 15.
अधुना उदाहरणम् अनुसृत्य अव्ययीभावसमासस्य समस्तपदानि लिखत।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः


उत्तराणि:
(क) उपवृक्षम्
(ख) यथाशक्ति
(ग) प्रतिग्रामम्
(घ) सचित्रम्
(ङ) उपगङ्गम्
(च) अनुरूपम्
(छ) प्रतिदिनम्
(ज) जलाभावः / निर्जलम्
(झ) निरङ्कुशम्
(ञ) निर्विघ्नम्
(ट) अनुरथम्।

प्रश्न 16.
कोष्ठकात् शुद्धम् उत्तरं चित्वा रिक्तस्थानानि पूरयत-

(क) अनेन सदृशो महापुरुषः __________ नास्ति। (त्रिलोके / त्रिलोक्याम्)
(ख) सः __________ फलानि खादति। (यथेच्छया / यथेच्छम्)
(ग) __________ सरः दृष्ट्वा कः न प्रसीदति? (विकसितपङ्कज / विकसितपङ्कजम्)
(घ) __________ वेदान्तस्य प्रचारः कृतः (स्वामीविवेकानन्देन / स्वामिविवेकानन्देन)
(ङ) रामः __________ धावति। (अनुमृगम् / अनुमृगः)
(च) सः पण्डितः __________ अस्ति। (विद्याधनः / विद्याधनम्)
उत्तराणि:
(क) त्रिलोके
(ख) यथेच्छम्
(ग) विकसितपङ्कजम्
(घ) स्वामिविवेकानन्देन
(ङ) अनुमृगम्
(च) विद्याधनः।

बहुविकल्पीय प्रश्नाः

1. स्थूलपदानां विकल्पेषु प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्।
(मोटे छपे शब्दों के विकल्पों में दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनिए। Choose the appropriate answer from the options given below.)

प्रश्न 1.
सिंहात् भयम्
 नास्ति।
(क) सिंहभयम्
(ख) सिंहभयः
(ग) सिंहाभयः
(घ) सिंहः भयः
उत्तराणि:
(क) सिंहभयम्

प्रश्न 2.
सरस्वती सर्वदा अस्ति।
(क) सर्वं ददाति इति
(ख) सर्वं ददाति या सा
(ग) सर्वं दहति या सा
(घ) सर्वस्य ददाति इति
उत्तराणि:
(क) सर्वं ददाति इति

प्रश्न 3.
सः शास्त्रपारङ्गतः अस्ति।
(क) शास्त्रेषु पारङ्गतः
(ख) शास्त्राणाम् पारङ्गतः
(ग) शास्त्रात् पारङ्गतः।
(घ) शास्त्राणी पारङ्गतः
उत्तराणि:
(क) शास्त्रेषु पारङ्गतः

प्रश्न 4.
माता शिशोः मुखम् कमलम् इव दृष्ट्वा हृष्यति।
(क) मुखकमल:
(ख) मुखकमलम्
(ग) मुखकमला
(घ) मुखकमलाः
उत्तराणि:
(ख) मुखकमलम्

प्रश्न 5.
‘शरीरस्य विमोक्षणम्’
 अस्य कृते एकम् पदम् लिखत।
(क) शरीरविमोक्षणम्
(ख) शरीरोविमोक्षणम्
(ग) शरीरस्यविमोक्षणम्
(घ) शरीरस्विमोक्षणम्।
उत्तराणि:
(क) शरीरविमोक्षणम्

प्रश्न 6.
नास्ति त्यागसमम् सुखम्।
(क) त्यागेन समम्
(ख) त्यागात् समम्
(ग) त्यागं समम्
(घ) त्यागस्य समम्।
उत्तराणि:
(क) त्यागेन समम्

प्रश्न 7.
अकातरः
 कः?
(क) न कातरः
(ख) अनकातरः
(ग) कातरेण सहितम्
(घ) कातरात् रहितः
उत्तराणि:
(क) न कातरः

प्रश्न 8.
राजपुत्राः वानरयूथं पुष्टिं नयन्ति स्म।
(क) वानरस्य यूथम्
(ख) वानराय यूथम्
(ग) वानराणाम् यूथम्
(घ) वानरेण यूथम्।
उत्तराणि:
(ग) वानराणाम् यूथम्

2. स्थूलपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्त्वा उत्तरपुस्तिकायाम् लिखत।

(स्थूल पदों में समास अथवा समास विग्रह विकल्पों से चुनकर उत्तरपुस्तिका में लिखिए। Join or disjoin compounds in the bold words choose the appropriate answer from the options given below and write in the answer sheet.)

प्रश्न 1.
प्र०
 शिष्याय उपादेयं किम्?
उ० गुरुवचनम्।
(क) गुरौ वचनम्
(ख) गुरौः वचनम्
(ग) गुरुम् वचनम्
(घ) गुरोः वचनम्।
उत्तराणि:
(घ) गुरोः वचनम्।

प्रश्न 2.
प्र०
 युष्माकं विद्यालये किम् अस्ति?
उ० महोत्सवः।
(क) महा उत्सवः
(ख) महान् उत्सवः
(ग) महत् उत्सवः
(घ) महत् उत्सवं तत्।
उत्तराणि:
(ख) महान् उत्सवः

प्रश्न 3.
तस्याः सुतौ, लवकुशौ महर्षिणा वाल्मीकिना पालितौ-पोषितौ च।
(क) महर्षिना वाल्मीकि
(ख) महर्षि वाल्मीकिना
(ग) महर्षि वाल्मीकिः
(घ) महर्षि वाल्मीकिम्।
उत्तराणि:
(ख) महर्षि वाल्मीकिना

प्रश्न 4.
तस्य वक्रदेहम् दृष्ट्वा सर्वे पण्डिताः अहसन्।
(क) वक्रं देहम्
(ख) वक्रः देहम्
(ग) वक्रस्य देहम्
(घ) वक्रम् देहम् तस्य।
उत्तराणि:
(क) वक्रं देहम्

प्रश्न 5.
युधिष्ठिरः पाण्डवानाम् अग्रजः आसीत्।
(क) पाण्डवाग्रजः
(ख) पाण्डवग्रजः
(ग) पाण्डवाअग्रजः
(घ) पाण्डवअग्रजः।
उत्तराणि:
(क) पाण्डवाग्रजः

प्रश्न 6.
जनाः देशस्य भक्तान् पूजयन्ति।
(क) देशभक्तान्
(ख) देशभक्तान्
(ग) देशभक्तान्
(घ) देशभक्ताः तान्।
उत्तराणि:
(क) देशभक्तान्

प्रश्न 7.
कूपम् प्राप्तः
 काकः जलम् अलभत।
(क) कूपप्राप्तः
(ख) कूप्प्राप्तः
(ग) कूपप्राप्ताः
(घ) कूपप्राप्तम्।
उत्तराणि:
(क) कूपप्राप्तः

प्रश्न 8.
स नरः श्रेष्ठः यः शरणम् आश्रितस्य पालनं करोति।
(क) शरणाश्रितः
(ख) शरणाश्रितस्य
(ग) शरणाश्रितम्
(घ) शरणाश्रिता।
उत्तराणि:
(ख) शरणाश्रितस्य

प्रश्न 9.
अष्टावक्र: अष्टौ अङ्गवक्रः आसीत्।
(क) अङ्गम् वक्रः
(ख) अङ्गात् वक्रः
(ग) अङ्गः वक्रः
(घ) अङ्गेभ्यः वक्रः।
उत्तराणि:
(ग) अङ्गः वक्रः

प्रश्न 10.
पञ्चवटी
 इति स्थाने वने रामः लक्ष्मणेन सीतया च सह अवसत्।
(क) पञ्चानाम् वटानाम् समाहारः
(ख) पञ्चानाम् वटानाम् गुच्छम्
(ग) पञ्चानि वटानि समूहः
(घ) पञ्चभ्यः वृक्षेभ्यः समूहः।
उत्तराणि:
(क) पञ्चानाम् वटानाम् समाहारः

प्रश्न 11.
अहं भवतः शरणम् आगता अस्मि।
(क) शरणागतः
(ख) शरणागता
(ग) शरणागतम्
(घ) शरणागते।
उत्तराणि:
(ख) शरणागता

प्रश्न 12.
वीरजननी
 त्वं शोचितुं न अर्हसि।
(क) वीराणाम् जननी
(ख) वीरः जननी
(ग) वीरा जननी
(घ) वीरेण जननी।
उत्तराणि:
(क) वीराणाम् जननी

प्रश्न 13.
मधुरवचनं
 विना भाषणं व्यर्थम् एव अस्ति।
(क) मधुरं वचनं
(ख) मधुरं वचनः
(ग) मधुरः वचनं
(घ) मधुरा वचनं।
उत्तराणि:
(क) मधुरं वचनं

प्रश्न 14.
बालकः पीतम् अम्बरम् स्मरति।
(क) पीतम्बरम्
(ख) पिताम्बरम्
(ग) पीताम्बरम्
(घ) पीताम्बरः।
उत्तराणि:
(ग) पीताम्बरम्

प्रश्न 15.
कः शास्त्रपारङ्गतः आसीत्?
(क) शास्त्रात् पारङ्गतः
(ख) शास्त्राय पारङ्गतः
(ग) शास्त्रेषु पारङ्गतः
(घ) शास्त्रेभ्यः पारङ्गतः।
उत्तराणि:
(ग) शास्त्रेषु पारङ्गतः

प्रश्न 16.
राजा अपि नीलोत्पलम् इव चक्षुः उत्पाट्य याचकाय समर्पितवान्।
(क) नीलम्च उत्पलम्च
(ख) नीलम् उत्पलम्
(ग) नीलः उत्पलः, तम्
(घ) नीलानि उत्पलानि, तत्।
उत्तराणि:
(ख) नीलम् उत्पलम्

प्रश्न 17.
अस्माकं क्षेत्रे सुवर्णपूरितः कलश: विद्यते।
(क) सुवर्णेन पूरितः
(ख) सुवर्णम् पूरितः
(ग) सुवर्णात् पूरितः
(घ) सुवर्णस्य पूरितः।
उत्तराणि:
(क) सुवर्णेन पूरितः

प्रश्न 18.
भारतीयमासानां
 नामानि नक्षत्रनामभिः सम्बद्धानि।
(क) भारतीयस्य मासानां
(ख) भारतीयानां मासानां
(ग) भारतीयाय मासानां
(घ) भारतीये मासानां।
उत्तराणि:
(ख) भारतीयानां मासानां

प्रश्न 19.
युधिष्ठिरार्जुनौ रथारोहणं नाटयतः।
(क) रथस्य आरोहणं
(ख) रथे आरोहणं
(ग) रथेन आरोहणं
(घ) रथाय आरोहण।
उत्तराणि:
(ख) रथे आरोहणं

प्रश्न 20.
ज्ञानवृद्धः
 पूज्यः भवति।
(क) ज्ञाने वृद्धः
(ख) ज्ञानस्य वृद्धः
(ग) ज्ञानात् वृद्धः
(घ) ज्ञानम् वृद्धः।
उत्तराणि:
(क) ज्ञाने वृद्धः

प्रश्न 21.
मदोद्धताः
 कपयः यूथपतिं प्रहस्य अवदन्।
(क) मदात् उद्धताः
(ख) मदेन उद्धताः
(ग) मदस्य उद्धताः
(घ) मदे उद्धताः।
उत्तराणि:
(ख) मदेन उद्धताः

प्रश्न 22.
अन्धः अकार्यरतः भवति।
(क) न कार्यरतः
(ख) अकार्ये रतः
(ग) अकार्यात् रतः
(घ) अकार्येण रतः।
उत्तराणि:
(ख) अकार्ये रतः

प्रश्न 23.
अर्थिनां विरलसंख्यां दृष्ट्वा नृपोऽचिन्तयत्।
(क) विरला संख्यां
(ख) विरला संख्यां
(ग) विरलाः संख्याः
(घ) विरला संख्या।
उत्तराणि:
(क) विरला संख्यां

प्रश्न 24.
मनः अभ्यासवशगं भवति।
(क) अभ्यासेन वशगं
(ख) अभ्यासात् वशं गच्छति
(ग) अभ्यासेन वशं गच्छति इति
(घ) अभ्यासम् वश्म् गच्छति इति।
उत्तराणि:
(ग) अभ्यासेन वशं गच्छति इति

प्रश्न 25.
नरः बुद्धेः नाशात् प्रणश्यति।
(क) बुद्धिनाशात्
(ख) बुद्धिर्नाशात्
(ग) बुद्धिष्नाशात्
(घ) बुद्धिस्नाशात्।
उत्तराणि:
(क) बुद्धिनाशात्

प्रश्न 26.
स्वगृहगतः
 प्रच्छन्नभाग्यः अचिन्तयत्।
(क) गृहः गतः
(ख) गृहे गतः
(ग) गृहेण गतः
(घ) गृहम् गतः।
उत्तराणि:
(घ) गृहम् गतः।

प्रश्न 27.
जनाः प्रियस्य आगमनसङ्केतं मत्वा हृष्यन्ति।
(क) आगमनाय सङ्केतं
(ख) आगमनस्य सङ्केतं
(ग) आगमने सङ्केतं
(घ) आगमनेन सङ्केतं।
उत्तराणि:
(ख) आगमनस्य सङ्केतं

प्रश्न 28.
मन्त्री वाक्पटुः भवेत्।
(क) वाके पटुः
(ख) वाकि पटुः
(ग) वाचि पटुः
(घ) वाच पटुः
उत्तराणि:
(ग) वाचि पटुः

3. स्थूलपदानां विकल्पेषु प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्।
(मोटे छपे शब्दों के विकल्पों में दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनिए। Choose the appropriate answer from the options given below.)

प्रश्न 1.
यथासमयं
 विद्यालयम् आगच्छ।
(क) समयेन अनतिक्रम्य
(ख) समयम् अनतिक्रम्य
(ग) समयः अनतिक्रम्य
(घ) समयस्य अनतिक्रम्य।
उत्तराणि:
(ख) समयम् अनतिक्रम्य

प्रश्न 2.
मुनयः कन्दमूलफलानि खादन्ति।
(क) कन्दं च मूलं च फलं च
(ख) कन्दः च मूलः च फलः च
(ग) कन्दौ च मूलौ च फलौ च
(घ) कन्देन च मूलेन च फलेन च।
उत्तराणि:
(क) कन्दं च मूलं च फलं च

प्रश्न 3.
रमा च सीता च
 पठतः।
(क) रमासीताः
(ख) रमासीतौ
(ग) रमासीते
(घ) रमासीता।
उत्तराणि:
(ग) रमासीते

प्रश्न 4.
ग्रीष्मवसन्तशिशिराः
 ऋतवः उत्तरायणे भवन्ति।
(क) ग्रीष्मं च वसतं च शिशिरं च
(ख) ग्रीष्मः च वसन्तः च शिशिरः च
(ग) ग्रीष्माः च वसन्ताः च शिशिराः च
(घ) ग्रीष्मे च वसन्ते च शिशिरे च।
उत्तराणि:
(ख) ग्रीष्मः च वसन्तः च शिशिरः च

प्रश्न 5.
अस्मिन् विद्यालये प्रत्येकम् छात्रः परिश्रमी अस्ति।
(क) एकम्-एकम्
(ख) एके-एके
(ग) एकस्मिन्-एकस्मिन्
(घ) एकः च एकः च।
उत्तराणि:
(क) एकम्-एकम्

4. स्थूलपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्त्वा उत्तरपुस्तिकायाम् लिखत।
(स्थूल पदों में समास अथवा समास विग्रह विकल्पों से चुनकर उत्तरपुस्तिका में लिखिए। Join or disjoin compounds in the bold words choose the appropriate answer from the options given below and write in the answer sheet.)

प्रश्न 1.
प्र०
 धर्मप्रदां वाचं कः त्यजति?
(क) मूढा बुद्धिः
(ख) मूढा बुद्धिः यः सः
(ग) मूढा बुद्धिः यस्य सः
(घ) मूढा बुद्धिः यस्याः सा।
उत्तराणि:
(ग) मूढा बुद्धिः यस्य सः

प्रश्न 2.
प्र०
 क: लोके आदरं न लभते?
(क) विद्यया पराङ्मुखं यस्य सः
(ख) विद्यायाः पराङ्मुखः यस्य सः
(ग) विद्याम् पराङ्मुखं यस्य सः
(घ) विद्याम् पराङ्मुखः यः सः
उत्तराणि:
(क) विद्यया पराङ्मुखं यस्य सः

प्रश्न 3.
प्र०
 त्वं यथासमयं विद्यालयं गच्छसि।
(क) समयम् अनतिक्रम्य
(ख) समस्य समीपम्
(ग) समयेन सह
(घ) समयस्य अभावः।
उत्तराणि:
(क) समयम् अनतिक्रम्य

प्रश्न 4.
नगरस्य समीपे
 एव सा वरयात्रा अतिष्ठत्।
(क) अनुनगरम्
(ख) यथानगरम्
(ग) सनगरम्
(घ) उपनगरम्।
उत्तराणि:
(घ) उपनगरम्।

प्रश्न 5.
गुरोः समीपम्
 स्थित्वा जनकः ज्ञानं प्राप्तवान्।
(क) उपगुरु
(ख) उपगुरुः
(ग) अनुगुरु
(घ) अधिगुरु।
उत्तराणि:
(क) उपगुरु

प्रश्न 6.
नीलकण्ठः
 शिवः हिमालये वसति।
(क) नीलः कण्ठः
(ख) नीलं कण्ठं सः
(ग) नीलं कण्ठं यस्य सः
(घ) नीलस्य कण्ठः।
उत्तराणि:
(ग) नीलं कण्ठं यस्य सः

प्रश्न 7.
‘पीतानि अम्बराणि यस्य सः, तस्य’
 देवस्य इदं मन्दिरम् अस्ति।
(क) पीताम्बरः तस्य
(ख) पीताम्बरस्य
(ग) पीताम्बर तस्य
(घ) पीताम्बरः।
उत्तराणि:
(ख) पीताम्बरस्य

प्रश्न 8.
इदं स्थानं निर्मक्षिकम् अस्ति अतः अत्र रोगाः न वर्तन्ते।
(क) मक्षिकस्य अभावः
(ख) मक्षिके अभावः
(ग) मक्षिकायाः अभावः
(घ) मक्षिकाणाम् अभावः।
उत्तराणि:
(घ) मक्षिकाणाम् अभावः।

प्रश्न 9.
एकदा लब्धा प्रतिष्ठा येन सः राजा विहाराय नगरम् अगच्छत्।
(क) लब्धप्रतिष्ठा
(ख) लब्धप्रतिष्ठः
(ग) लब्धप्रतिष्ठं
(घ) लब्धप्रतिष्ठ।
उत्तराणि:
(ख) लब्धप्रतिष्ठः

प्रश्न 10.
सा विधिम् अनतिक्रम्य गणितं शिक्षते।
(क) यथाविधिम्
(ख) यथाविधिः
(ग) यथाविधी
(घ) यथाविधि।
उत्तराणि:
(घ) यथाविधि।

प्रश्न 11.
मह्यम् दधिओदनं न रोचेते।
(क) दधिम् च ओदनं च
(ख) दधि च ओदनं च
(ग) दधिः च ओदनं च
(घ) दधिना च ओदनेन च।
उत्तराणि:
(ग) दधिः च ओदनं च

प्रश्न 12.
विनयशीलः
 बुद्धः तथागतः कथ्यते।
(क) विनयम् शीलम् यस्य सः
(ख) विनय एव शील:
(ग) विनयस्य शीलः
(घ) विनयेन शीलः।
उत्तराणि:
(क) विनयम् शीलम् यस्य सः

प्रश्न 13.
सः प्रतिदिनं दानं करोति स्म।
(क) दिनात् दिनात् इति
(ख) दिनेन दिनेन इति
(ग) दिनाय दिनाय इति
(घ) दिनम् दिनम् इति।
उत्तराणि:
(घ) दिनम् दिनम् इति।

प्रश्न 14.
अहः च निशा च
 ईश्वरः ध्यातव्यः?
(क) अहोनिशा
(ख) अहर्निशा
(ग) अहर्निशम्
(घ) अहर्निशः।
उत्तराणि:
(ग) अहर्निशम्

प्रश्न 15.
को भेदः पिकः च काकः च तयोः?
(क) पिककाकयोः
(ख) पिककाको
(ग) पिककाकम्
(घ) काकौ।
उत्तराणि:
(क) पिककाकयोः

प्रश्न 16.
दुष्टा बुद्धिः यस्य सः
 सद्वचनानि तिरस्कृत्य ग्रामाभिमुखम् प्राचलत्।
(क) दुष्टबुद्धी
(ख) दुष्टबुद्धिः
(ग) दुष्टबुद्धि
(घ) दुष्टाबुद्धिः।
उत्तराणि:
(ख) दुष्टबुद्धिः

प्रश्न 17.
अहम् अस्य सर्वं क्रियाकलापं पश्यामि।
(क) क्रिया कलापं च
(ख) क्रिया च कलापं च
(ग) क्रिया च कलापं च तयोः समाहारः
(घ) क्रियायाः कलापम्।
उत्तराणि:
(ग) क्रिया च कलापं च तयोः समाहारः

प्रश्न 18.
अधुना मम माता च पिता च आगच्छतः।
(क) मातापितौ
(ख) मातापितरौ
(ग) मातपितरौ
(घ) मातपितः।
उत्तराणि:
(ख) मातापितरौ

प्रश्न 19.
नीलकण्ठः
 शिवः हिमालये तपते।
(क) नीलः कण्ठः यस्यसः
(ख) नीलः कण्ठः
(ग) नीलम् कण्ठम् सः
(घ) नीलम् कण्ठः।
उत्तराणि:
(क) नीलः कण्ठः यस्यसः

प्रश्न 20.
भोजनसमये तो पाणी च पादौ च प्रक्षालयतः।
(क) पाणिपादौ
(ख) पाणीपादौ
(ग) पाणिपादम्
(घ) पाणिपादः।
उत्तराणि:
(ग) पाणिपादम्

प्रश्न 21.
रामः च लक्ष्मणः च
 ऋषि-विश्वामित्रस्य शिष्यौ आस्ताम्।
(क) रामलक्ष्मणः
(ख) रामलक्ष्मणोः
(ग) रामलक्ष्मणम्
(घ) रामलक्ष्मणौ।
उत्तराणि:
(घ) रामलक्ष्मणौ।

प्रश्न 22.
वृद्धान् उपसेवितुं शीलं यस्य सः
 राजा याचकाय द्वितीयमपि नेत्रं दत्तवान्।
(क) वृद्धोपसेवा
(ख) वृद्धोपसेवः
(ग) वृद्धोपसेवी
(घ) वृद्धोपसेविन्।
उत्तराणि:
(ग) वृद्धोपसेवी

प्रश्न 23.
को गुरुः? अधिगततत्त्वः।
(क) अधिगतः तत्त्वः
(ख) अधिगतम् तत्त्वम्, सः
(ग) अधिगतः तत्त्वः, सः
(घ) अधिगतम् तत्त्वम् येन सः।
उत्तराणि:
(घ) अधिगतम् तत्त्वम् येन सः।

प्रश्न 24.
कौ पूज्यौ? मातापितरौ एव।
(क) माता च पिता च
(ख) मातृ च पितृ च
(ग) मातृ च पिता च
(घ) माता च पितृ च।
उत्तराणि:
(क) माता च पिता च

प्रश्न 25.
सर्वेषामेव महत्त्वं विद्यते यथासमयम्।
(क) समयम् अनुसारम्
(ख) समयम् अतिक्रम्य
(ग) समयम् अनतिक्रम्य
(घ) समयस्य योग्यम्।
उत्तराणि:
(ग) समयम् अनतिक्रम्य

प्रश्न 26.
सर्वेषामेव महत्त्वं विद्यते अनुदिनम्।
(क) दिनस्य समीपम्
(ख) दिनस्य योग्यम्
(ग) दिनस्य पूर्वम्
(घ) दिनस्य अभावः।
उत्तराणि:
(ख) दिनस्य योग्यम्

प्रश्न 27.
प्रत्येकम्
 अयनस्य अवधिः षण्मासाः।
(क) एकस्मात् इति
(ख) एकस्मात्-एकस्मात् इति
(ग) एकम्-एकम् इति
(घ) एके-एके इति।
उत्तराणि:
(ग) एकम्-एकम् इति

प्रश्न 28.
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
(क) प्रियम् च अहितम् च
(ख) प्रियम् च हिताय च
(ग) प्रियः च हितम् च
(घ) प्रियम् च हितम् च।
उत्तराणि:
(घ) प्रियम् च हितम् च।

प्रश्न 29.
प्रच्छन्नं भाग्यं यस्य सः
 स्वपत्नी सम्बोध्य उवाच।
(क) प्रच्छन्नभाग्य
(ख) प्रच्छन्नभाग्यम्।
(ग) प्रच्छन्नभाग्याः
(घ) प्रच्छन्नभाग्यः।
उत्तराणि:
(घ) प्रच्छन्नभाग्यः।

प्रश्न 30.
ध्यानमग्नः स्थिता प्रज्ञा यस्य स इव तिष्ठामि।
(क) स्थितप्रज्ञः
(ख) स्थितप्रज्ञा
(ग) स्थितप्रज्ञम्
(घ) स्थितप्रज्ञाम्।
उत्तराणि:
(क) स्थितप्रज्ञः

NCERT Solutions for Class 10 Sanskrit Grammar खण्ड ग समासा

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’: Download PDF

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः

Download PDF: NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समासाः PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit Grammar :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More

NCERT Solutions for All Classes (1 to 12)

Jump to free NCERT solutions, chapter Q&A, and textbooks for any grade

Popular Reference Solutions & Help Books

Step-by-step solutions for Mathematics and Science reference textbooks

Latest School & Board Updates

Real-time date sheets, admit cards, syllabus revisions, and exam notifications

Haryana Board Senior Secondary (12th) 20 Feb 2025
HBSE 12th 2024 Question Papers
View
Haryana Board Secondary (10th) 20 Feb 2025
HBSE 10th 2024 Question Papers
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 9th Model Papers 2025
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 11th Model Papers 2025
View
State Board Primary (1-5) 15 Feb 2025
BHU SET 2025 Application Form
View

Frequently Asked Questions

Common queries regarding NCERT textbook solutions & school curriculum

Are these NCERT solutions available 100% free of charge?

Yes. All NCERT solutions, chapter questions, textbook exercises, and download guides published on IndCareer Schools are completely free for students, parents, and educators without requiring any paid subscription or login.

Which subjects are covered for Class 10?

For Class 1, comprehensive NCERT solutions are provided for Mathematics (Math-Magic / गणित का जादू), English (Marigold & Mridang), and Hindi (Rimjhim / रिमझिम), alongside printable worksheets and textbook PDF downloads.

Are these solutions updated according to the latest CBSE / NCERT guidelines?

Yes. Our academic editorial team continually aligns all solutions and textbook references with the latest National Education Policy (NEP) and the rationalized curriculum issued by NCERT and the Central Board of Secondary Education (CBSE).

How can I download the official NCERT books in PDF format?

You can access official NCERT textbooks by clicking on the textbook links provided in the study content section above or by visiting the Class 1 to 12 NCERT Directory on IndCareer Schools.